हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Datta Nakshatra Malika – श्री दत्त नक्षत्रमालिका स्तोत्रम्


गोदावर्या महानद्या उत्तरे सिंहपर्वते ।
सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ १ ॥

जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे ।
मार्गशीर्ष्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ २ ॥

मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् ।
दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ ३ ॥

भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः ।
रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ ४ ॥

भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः ।
बालोन्मत्तपिशाचाभः स्मर्तृगामी दयानिधिः ॥ ५ ॥

यस्यास्ति माहुरे निद्रा निवासः सिंहपर्वते ।
प्रातः स्नानं च गङ्गायां ध्यानम् गन्धर्वपत्तने ॥ ६ ॥

कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा ।
विभूतिधारणं प्रातःसन्ध्या च करहाटके ॥ ७ ॥

कोलापुरेऽस्य भिक्षा च पाञ्चालेऽपि च भोजनम् ।
दिनगो विठ्ठलपुरे तुङ्गापानं दिने दिने ॥ ८ ॥ [तिलको]

पुराणश्रवणं यस्य नरनारायणाश्रमे ।
विश्रामो सरदे सायंसन्ध्या पश्चिमसागरे ॥ ९ ॥ [रैवते]

कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
स्वात्मतत्त्वं च यदवे बहुगुर्वाप्तमुत्तमम् ॥ १० ॥

आन्वीक्षिकीमलर्काय प्रह्लादाय तगीयते । [च धीमते]
आयूराजाय च वरान् साध्येभ्यो मोक्षसाधनम् ॥ ११ ॥

मन्त्रांश्च विष्णुदत्ताय सोमकान्ताय कर्म च ।
स एवाविरभूद्भूयः पूर्वार्णवसमीपतः ॥ १२ ॥

भाद्रे मासि सिते पक्षे चतुर्थ्यां राजविप्रतः ।
सुमत्यां प्राक्सिन्धुतीरे रम्ये पीठापुरे वरे ॥ १३ ॥

य आचारव्यवहृतिप्रायश्चित्तोपदेशकृत् ।
निजाग्रजावन्धपङ्गू विलोक्य प्रव्रजन् सुधीः ॥ १४ ॥

मातापित्रोर्मुदे दृष्टिं गतिं ताभ्यामुपानयत् ।
महीं प्रदक्षिणीकृत्य गोकर्णे त्र्यब्दमावसन् ॥ १५ ॥

ततः कृष्णातटं प्राप्य मर्तुकामां सपुत्रकाम् ।
निवर्त्य ब्राह्मणीं मन्दं प्रदोषं व्रतमादिशत् ॥ १६ ॥

तत्पुत्रं विबुधं कृत्वा तस्या जन्मान्तरे प्रभुः ।
पुत्रो भूत्वा नरहरिनामको देश उत्तरे ॥ १७ ॥

काञ्चने नगरेऽप्यम्बामानयद्विपदो विभुः ।
मासि पौषे सिते पक्षे द्वितीयायां शनेर्दिने ॥ १८ ॥

जातमात्रोऽपि चोङ्कारं पपाठाथापि मूकवत् ।
सप्ताब्दान् लीलया स्थित्वा नानाकौतुककृत् प्रभुः ॥ १९ ॥

उपनीतोऽपठद्वेदान् सप्तमे वत्सरे स्वयम् ।
आश्वास्य जननीं पुत्रद्वयदानेन बोधतः ॥ २० ॥

काशीं गत्वाऽष्टाङ्गयोगाभ्यासी कृष्णसरस्वतीम् ।
कृत्वा गुरुं यतिर्भूत्वा वेदार्थान् सम्प्रकाश्य च ॥ २१ ॥

लुप्तसन्न्यासिधर्मं च तेने तुर्याश्रमं भुवि ।
मेरुं प्रदक्षिणीकृत्य शिष्यान् कृत्वाऽपि भूरिशः ॥ २२ ॥

पितृभ्यां दर्शनं दत्वा द्विजं शूलरुजार्दितम् ।
कृत्वाऽनामयमाश्वास्य सायन् देवं महामतिम् ॥ २३ ॥

अब्दं स्थित्वा वैद्यनाथक्षेत्रे कृष्णातटे ततः ।
भिल्लवाट्यां चतुर्मासान् विभुर्गत्वा ततोऽग्रतः ॥ २४ ॥

नृसिंहवाटिकाक्षेत्रे द्वादशाब्दान् वसन् सुधीः ।
तत्र स्थित्वाऽपि गन्धर्वपुरमेत्यावसन् मठे ॥ २५ ॥

जीवयित्वा मृतान् दुग्ध्वा वन्ध्यां च महिषीं हरिः ।
विश्वरूपं दर्शयित्वा यतये विश्वनाटकः ॥ २६ ॥

बह्वीरमानुषीर्लीलाः कृत्वा गुप्तोऽपि तत्र च ।
य आस्ते भगवान् दत्तः सोऽस्मान् रक्षतु सर्वदा ॥ २७ ॥

या सप्तविंशतिश्लोकैः कृता नक्षत्रमालिका ।
तद्भक्तेभ्योऽर्पिता भक्ताभिन्नश्रीदत्ततुष्टये ॥ २८ ॥

द्वादश्यामाश्विने कृष्णे श्रीपादस्योत्सवो महान् ।
माघे कृष्णे प्रतिपदि नरसिंहप्रभोस्तथा ॥ २९ ॥

इति श्रीवासुदेवानन्दसरस्वतीविरचिता नक्षत्रमालिका सम्पूर्णा ।


Guru Stotras – श्री गुरु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.